स्वामी
विवेकानन्दः
स्वामी
विवेकानन्दस्य नाम न केवलं सर्वे भारतीयाः जानन्ति अपितु सर्वे विश्वजनाः अपि जानति
एव।तस्य जन्म बन्गप्रान्ते १८६३ तमे वर्षे अभवत्। तस्य पूर्वनाम नरेन्द्रः आसीत्। तस्य
पितुः नाम विश्वनाथदत्तः आसीत्।
बाल्यकाले
एव सः रामकृष्णमहोदयस्य शिष्यत्वं स्वीकृतवान्
तत्र एव तस्य नाम विवेकानन्दः अभवत्।सः सम्पूर्णभारतवर्षे भ्रमणं कृतवान् ।सः सर्वत्र
भारतीयसंस्कृतेः प्रचारं प्रसारं कृतवान्।समाजस्य भेदभावं निवारयितुं जनान् सम्बोधितवान्।
समाजः राष्ट्रं च कथं सुदृढं तिष्ठेत् तदर्थम् ऐक्यभावस्य निर्माणार्थं सः भारते अटनं
कृतवान्।
१८९३
वर्षे अमेरिका देशे शिकागो नगरे विश्वधर्मसम्मेलनम् अभवत्।तत्र सः भारतस्य हिन्दुधर्मस्य
प्रतिनिधिः आसीत्।यदा सः भाषणे जनान् मम बन्धुभगिन्यः सम्भोधितवान् तदा श्रोतारः अतीव
उल्लासिताः भूत्वा करताडनम् अकूर्वन्।
अयं
महापुरुषः लोकसेवां उद्दिश्य “रामकृष्णमिशन”इति
संस्थायाः स्थापनां कृतवान्।सम्पूर्णे जीवने
सः दीनानां पीडितजनानां सेवां कृतवान्। एषः महापुरुषः १९०२ वर्षे जुलाईमासस्य चतुर्थे
दिनाङ्के निर्वाणं प्राप्तवान्।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें