23. नोव्हेम्बरः
सोमवार, 25 नवंबर 2013
गुरुवार, 14 नवंबर 2013
दीपोत्सवः
दीपोत्सवः
भारतम् पर्वाणां
देशः।उत्सवप्रियाः हि भारतीयाः।पर्वाणि जन-जीवने उत्साहम् आनन्दं च
सञ्चारयन्ति।दीपोत्सवः इत्युक्ते दीपानाम् उत्सवः,सर्वेषाम् उत्सवानां मूर्ध्नि
वर्तते।शरत्कालीनम् इदम् पर्व सर्वे सानन्दं मानयन्ति।
प्राचीना रामायणी कथा।यदा
दशरथपुत्रः चतुर्दशवर्षाणां वनवासात् अनन्तरं भार्यया सीतया,भ्रात्रा लक्ष्मणेन सह अयोध्यां
प्रत्यागतः,अयोध्यावासिनः नितरां प्रमुदिताः अभवन् ।प्रियजनानां स्वागतार्थं ते
रात्रौ घृतदीपान् प्राज्वालयन्।सकले राज्ये आमोद-प्रमोदः अभवत्।तस्मात् कालात्
आरभ्य अद्य यावत् इदं पर्व हर्षोल्लासेन मान्यते।
गुरुवार, 7 नवंबर 2013
स्वामी विवेकानन्दः
स्वामी विवेकानन्दः
स्वामी विवेकानन्दस्य नाम न केवलं सर्वे भारतीयाः जानन्ति अपितु सर्वे विश्वजनाः अपि जानति एव।तस्य जन्म बन्गप्रान्ते १८६३ तमे वर्षे अभवत्। तस्य पूर्वनाम नरेन्द्रः आसीत्। तस्य पितुः नाम विश्वनाथदत्तः आसीत्।
बाल्यकाले एव सः रामकृष्णमहोदयस्य शिष्यत्वं स्वीकृतवान् तत्र एव तस्य नाम विवेकानन्दः अभवत्।सः सम्पूर्णभारतवर्षे भ्रमणं कृतवान् ।सः सर्वत्र भारतीयसंस्कृतेः प्रचारं प्रसारं कृतवान्।समाजस्य भेदभावं निवारयितुं जनान् सम्बोधितवान्। समाजः राष्ट्रं च कथं सुदृढं तिष्ठेत् तदर्थम् ऐक्यभावस्य निर्माणार्थं सः भारते अटनं कृतवान्।
१८९३ वर्षे अमेरिका देशे शिकागो नगरे विश्वधर्मसम्मेलनम् अभवत्।तत्र सः भारतस्य हिन्दुधर्मस्य प्रतिनिधिः आसीत्।यदा सः भाषणे जनान् मम बन्धुभगिन्यः सम्भोधितवान् तदा श्रोतारः अतीव उल्लासिताः भूत्वा करताडनम् अकूर्वन्।
अयं महापुरुषः लोकसेवां उद्दिश्य “रामकृष्णमिशन”इति संस्थायाः स्थापनां कृतवान्।सम्पूर्णे जीवने सः दीनानां पीडितजनानां सेवां कृतवान्। एषः महापुरुषः १९०२ वर्षे जुलाईमासस्य चतुर्थे दिनाङ्के निर्वाणं प्राप्तवान्।
शुक्रवार, 13 सितंबर 2013
मम मित्रम्
मम मित्रम्
मानवः मम मित्रम् अस्ति |सः मम विद्यालये सहपाठी अस्ति |सः अतीव चतुरः कुशाग्रः च |आवां मिलित्वा विद्यालयं गच्छावः |सः सदैव स्वच्छगणवेशं परिधानं करोति |सः परीक्षायां सदा प्रथमः तिष्ठति |सः कदापि वृथा समयं न यापयति |अर्धावकाशे आवां मिलित्वा एव भोजनं कुर्वः |सः मां अभ्यासे अपि सहाय्यं
करोति ||सः गृहे ,विद्यालये ,समाजे तथा च यत्र कुत्रापि गच्छति तत्र स्नेहं सम्मानम् च एव लभते |तथापि सः सदैव नम्रः एव भवति |अतः सः मम प्रियतमं मित्रम् अस्ति |
मंगलवार, 10 सितंबर 2013
धेनुः
धेनुः
धेनुः अस्माकं भारतीयसंस्कृतेः सर्वोत्तमः पशुः अस्ति। अस्माकं पुरातनग्रन्थेषु शास्त्रेषु ,वेदेषु सर्वत्र धेनोः विषये रोचकं ,श्रद्धापूर्वकं वर्णनं प्रप्यते। अस्माकं देशे धेनुः जननी एव पूज्या अस्ति |
सदस्यता लें
संदेश (Atom)