गुरुवार, 14 नवंबर 2013

दीपोत्सवः

दीपोत्सवः

भारतम् पर्वाणां देशः।उत्सवप्रियाः हि भारतीयाः।पर्वाणि जन-जीवने उत्साहम् आनन्दं च सञ्चारयन्ति।दीपोत्सवः इत्युक्ते दीपानाम् उत्सवः,सर्वेषाम् उत्सवानां मूर्ध्नि वर्तते।शरत्कालीनम् इदम् पर्व सर्वे सानन्दं मानयन्ति।

प्राचीना रामायणी कथा।यदा दशरथपुत्रः चतुर्दशवर्षाणां वनवासात् अनन्तरं भार्यया   सीतया,भ्रात्रा लक्ष्मणेन सह अयोध्यां प्रत्यागतः,अयोध्यावासिनः नितरां प्रमुदिताः अभवन् ।प्रियजनानां स्वागतार्थं ते रात्रौ घृतदीपान् प्राज्वालयन्।सकले राज्ये आमोद-प्रमोदः अभवत्।तस्मात् कालात् आरभ्य अद्य यावत् इदं पर्व हर्षोल्लासेन मान्यते।

3 टिप्‍पणियां: