शुक्रवार, 13 सितंबर 2013

मम मित्रम्

मम मित्रम्

मानवः मम मित्रम्  अस्ति |सः मम विद्यालये सहपाठी अस्ति |सः अतीव चतुरः कुशाग्रः च |आवां मिलित्वा विद्यालयं गच्छावः |सः सदैव स्वच्छगणवेशं परिधानं करोति |सः परीक्षायां सदा प्रथमः तिष्ठति |सः कदापि वृथा समयं न यापयति |अर्धावकाशे आवां मिलित्वा एव भोजनं कुर्वः |सः मां अभ्यासे अपि सहाय्यं  
करोति ||सः गृहे ,विद्यालये ,समाजे तथा च यत्र कुत्रापि गच्छति तत्र स्नेहं सम्मानम् च  एव लभते |तथापि सः सदैव नम्रः एव भवति |अतः सः मम प्रियतमं मित्रम् अस्ति |

मंगलवार, 10 सितंबर 2013

धेनुः

धेनुः

धेनुः अस्माकं भारतीयसंस्कृतेः सर्वोत्तमः पशुः अस्ति। अस्माकं पुरातनग्रन्थेषु शास्त्रेषु ,वेदेषु सर्वत्र धेनोः विषये रोचकं ,श्रद्धापूर्वकं वर्णनं प्रप्यते। अस्माकं देशे धेनुः जननी एव पूज्या अस्ति |